atharvaveda/10/7/3

कस्मि॒न्नङ्गे॑ तिष्ठति॒ भूमि॑रस्य॒ कस्मि॒न्नङ्गे॑ तिष्ठत्य॒न्तरि॑क्षम्। कस्मि॒न्नङ्गे॑ तिष्ठ॒त्याहि॑ता॒ द्यौः कस्मि॒न्नङ्गे॑ तिष्ठ॒त्युत्त॑रं दि॒वः ॥

कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । भूमि॑: । अ॒स्य॒ । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । अ॒न्तरि॑क्षम् । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । आऽहि॑ता । द्यौ: । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । उत्ऽत॑रम् । दि॒व: ॥७.३॥

ऋषिः - अथर्वा, क्षुद्रः

देवता - स्कन्धः, आत्मा

छन्दः - त्रिष्टुप्

स्वरः - सर्वाधारवर्णन सूक्त

स्वर सहित मन्त्र

कस्मि॒न्नङ्गे॑ तिष्ठति॒ भूमि॑रस्य॒ कस्मि॒न्नङ्गे॑ तिष्ठत्य॒न्तरि॑क्षम्। कस्मि॒न्नङ्गे॑ तिष्ठ॒त्याहि॑ता॒ द्यौः कस्मि॒न्नङ्गे॑ तिष्ठ॒त्युत्त॑रं दि॒वः ॥

स्वर सहित पद पाठ

कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । भूमि॑: । अ॒स्य॒ । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । अ॒न्तरि॑क्षम् । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । आऽहि॑ता । द्यौ: । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । उत्ऽत॑रम् । दि॒व: ॥७.३॥


स्वर रहित मन्त्र

कस्मिन्नङ्गे तिष्ठति भूमिरस्य कस्मिन्नङ्गे तिष्ठत्यन्तरिक्षम्। कस्मिन्नङ्गे तिष्ठत्याहिता द्यौः कस्मिन्नङ्गे तिष्ठत्युत्तरं दिवः ॥


स्वर रहित पद पाठ

कस्मिन् । अङ्गे । तिष्ठति । भूमि: । अस्य । कस्मिन् । अङ्गे । तिष्ठति । अन्तरिक्षम् । कस्मिन् । अङ्गे । तिष्ठति । आऽहिता । द्यौ: । कस्मिन् । अङ्गे । तिष्ठति । उत्ऽतरम् । दिव: ॥७.३॥