atharvaveda/10/7/27

यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ गात्रा॑ विभेजि॒रे। तान्वै त्रय॑स्त्रिंशद्दे॒वानेके॑ ब्रह्म॒विदो॑ विदुः ॥

यस्य॑ । त्रय॑:ऽत्रिंशत् । दे॒वा: । अङ्गे॑ । गात्रा॑ । वि॒ऽभे॒जि॒रे । तान् । वै । त्रय॑:ऽत्रिंशत् । दे॒वान् । एके॑ । ब्र॒ह्म॒ऽविद॑: । वि॒दु॒: ॥७.२७॥

ऋषिः - अथर्वा, क्षुद्रः

देवता - स्कन्धः, आत्मा

छन्दः - अनुष्टुप्

स्वरः - सर्वाधारवर्णन सूक्त

स्वर सहित मन्त्र

यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ गात्रा॑ विभेजि॒रे। तान्वै त्रय॑स्त्रिंशद्दे॒वानेके॑ ब्रह्म॒विदो॑ विदुः ॥

स्वर सहित पद पाठ

यस्य॑ । त्रय॑:ऽत्रिंशत् । दे॒वा: । अङ्गे॑ । गात्रा॑ । वि॒ऽभे॒जि॒रे । तान् । वै । त्रय॑:ऽत्रिंशत् । दे॒वान् । एके॑ । ब्र॒ह्म॒ऽविद॑: । वि॒दु॒: ॥७.२७॥


स्वर रहित मन्त्र

यस्य त्रयस्त्रिंशद्देवा अङ्गे गात्रा विभेजिरे। तान्वै त्रयस्त्रिंशद्देवानेके ब्रह्मविदो विदुः ॥


स्वर रहित पद पाठ

यस्य । त्रय:ऽत्रिंशत् । देवा: । अङ्गे । गात्रा । विऽभेजिरे । तान् । वै । त्रय:ऽत्रिंशत् । देवान् । एके । ब्रह्मऽविद: । विदु: ॥७.२७॥