ऋषिः - अथर्वा, क्षुद्रः

देवता - स्कन्धः, आत्मा

छन्दः - उपरिष्टाज्ज्योतिर्जगती

स्वरः - सर्वाधारवर्णन सूक्त

PreviousNext
स्वर सहित मन्त्र

यत्रा॑दि॒त्याश्च॑ रु॒द्राश्च॒ वस॑वश्च स॒माहिताः॑। भू॒तं च॒ यत्र॒ भव्यं॑ च॒ सर्वे॑ लो॒काः प्रति॑ष्ठिताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

स्वर सहित पद पाठ

यत्र॑ । आ॒दि॒त्याः । च॒ । रू॒द्राः । च॒ । वस॑वः । च॒ । स॒म्ऽआहि॑ताः । भू॒तम् । च॒ । यत्र॑ । भव्य॑म् । च॒ । सर्वे॑ । लो॒काः । प्रति॑ऽस्थिताः । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒मः । स्वि॒त् । ए॒व । सः ॥७.२२॥


स्वर रहित मन्त्र

यत्रादित्याश्च रुद्राश्च वसवश्च समाहिताः। भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥


स्वर रहित पद पाठ

यत्र । आदित्याः । च । रूद्राः । च । वसवः । च । सम्ऽआहिताः । भूतम् । च । यत्र । भव्यम् । च । सर्वे । लोकाः । प्रतिऽस्थिताः । स्कम्भम् । तम् । ब्रूहि । कतमः । स्वित् । एव । सः ॥७.२२॥