ऋषिः - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाद्बृहती
स्वरः - सर्वाधारवर्णन सूक्त
यस्य॑ । ब्रह्म॑ । मुख॑म् । आ॒हुः । जि॒ह्वाम् । म॒धु॒ऽक॒शाम् । उ॒त । वि॒ऽराज॑म् । ऊध॑ः । यस्य॑ । आ॒हुः । स्क॒म्भ॒म् । तम् । ब्रू॒हि॒ । क॒त॒म॒ः । स्वि॒त् । ए॒व । सः ॥७.१९॥
यस्य । ब्रह्म । मुखम् । आहुः । जिह्वाम् । मधुऽकशाम् । उत । विऽराजम् । ऊधः । यस्य । आहुः । स्कम्भम् । तम् । ब्रूहि । कतमः । स्वित् । एव । सः ॥७.१९॥