ऋषिः - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाज्ज्योतिर्जगती
स्वरः - सर्वाधारवर्णन सूक्त
यत्र॑ । अ॒मृत॑म् । च॒ । मृ॒त्युः । च॒ । पुरु॑षे । अधि॑ । स॒माहि॑ते॒ इति॑ स॒म्ऽआहि॑ते । स॒मु॒द्रः । यस्य॑ । ना॒ड्य᳡ः । पुरु॑षे । अधि॑ । स॒म्ऽआहि॑ताः । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒मः । स्वि॒त् । ए॒व । सः ॥७.१५॥
यत्र । अमृतम् । च । मृत्युः । च । पुरुषे । अधि । समाहिते इति सम्ऽआहिते । समुद्रः । यस्य । नाड्य᳡ः । पुरुषे । अधि । सम्ऽआहिताः । स्कम्भम् । तम् । ब्रूहि । कतमः । स्वित् । एव । सः ॥७.१५॥