ऋषिः - अथर्वा, क्षुद्रः

देवता - स्कन्धः, आत्मा

छन्दः - उपरिष्टाज्ज्योतिर्जगती

स्वरः - सर्वाधारवर्णन सूक्त

PreviousNext
स्वर सहित मन्त्र

यस्मि॒न्भूमि॑र॒न्तरि॑क्षं॒ द्यौर्यस्मि॒न्नध्याहि॑ता। यत्रा॒ग्निश्च॒न्द्रमाः॒ सूर्यो॒ वात॑स्तिष्ठ॒न्त्यार्पि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

स्वर सहित पद पाठ

यस्मि॑न् । भूमि॑ः । अ॒न्तरि॑क्षम् । द्यौः । यस्मि॑न् । अधि॑ । आऽहि॑ता । यत्र॑ । अ॒ग्निः । च॒न्द्रमा॑ः । सूर्य॑ः । वात॑ः । तिष्ठ॑न्ति । आर्पि॑ताः । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒मः । स्वि॒त् । ए॒व । सः ॥७.१२॥


स्वर रहित मन्त्र

यस्मिन्भूमिरन्तरिक्षं द्यौर्यस्मिन्नध्याहिता। यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥


स्वर रहित पद पाठ

यस्मिन् । भूमिः । अन्तरिक्षम् । द्यौः । यस्मिन् । अधि । आऽहिता । यत्र । अग्निः । चन्द्रमाः । सूर्यः । वातः । तिष्ठन्ति । आर्पिताः । स्कम्भम् । तम् । ब्रूहि । कतमः । स्वित् । एव । सः ॥७.१२॥