ऋषिः - बृहस्पतिः

देवता - फालमणिः, वनस्पतिः

छन्दः - त्र्यवसाना षट्पदा शक्वरी

स्वरः - मणि बन्धन सूक्त

PreviousNext
स्वर सहित मन्त्र

यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से। तं सोमः॒ प्रत्य॑मुञ्चत म॒हे श्रोत्रा॑य॒ चक्ष॑से। सो अ॑स्मै॒ वर्च॒ इद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

स्वर सहित पद पाठ

यम् । अब॑ध्नात् । बृह॒स्पति॑ः । म॒णिम् । फाल॑म् । घृ॒त॒ऽश्चुत॑म् । उ॒ग्रम् । ख॒दि॒रम् । ओज॑से । तम् । सोम॑ः । प्रति॑ । अ॒मु॒ञ्च॒त॒ । म॒हे । श्रोत्रा॑य । चक्ष॑से । सः । अ॒स्मै॒ । वर्च॑ः । इत् । दु॒हे॒ । भूय॑ःऽभूयः। श्वःऽश्व॑ः । तेन॑ । त्वम् । द्वि॒ष॒तः । ज॒हि॒ ॥६.८॥


स्वर रहित मन्त्र

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे। तं सोमः प्रत्यमुञ्चत महे श्रोत्राय चक्षसे। सो अस्मै वर्च इद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥


स्वर रहित पद पाठ

यम् । अबध्नात् । बृहस्पतिः । मणिम् । फालम् । घृतऽश्चुतम् । उग्रम् । खदिरम् । ओजसे । तम् । सोमः । प्रति । अमुञ्चत । महे । श्रोत्राय । चक्षसे । सः । अस्मै । वर्चः । इत् । दुहे । भूयःऽभूयः। श्वःऽश्वः । तेन । त्वम् । द्विषतः । जहि ॥६.८॥