ऋषिः - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - पञ्चपदा त्र्यनुष्टुब्गर्भा जगती
स्वरः - मणि बन्धन सूक्त
ए॒तम् । इ॒ध्मम् । स॒म्ऽआहि॑तम् । जु॒षा॒णः । अग्ने॑ । प्रति॑ । ह॒र्य॒ । होमै॑ः । तस्मि॑न् । वि॒दे॒म॒ । सु॒ऽम॒तिम् । स्व॒स्ति । प्र॒ऽजाम् । चक्षु॑ः । प॒शून् । सम्ऽइ॑ध्दे । जा॒तऽवे॑दसि । ब्रह्म॑णा ॥६.३५॥
एतम् । इध्मम् । सम्ऽआहितम् । जुषाणः । अग्ने । प्रति । हर्य । होमैः । तस्मिन् । विदेम । सुऽमतिम् । स्वस्ति । प्रऽजाम् । चक्षुः । पशून् । सम्ऽइध्दे । जातऽवेदसि । ब्रह्मणा ॥६.३५॥