ऋषिः - बृहस्पतिः

देवता - फालमणिः, वनस्पतिः

छन्दः - अनुष्टुप्

स्वरः - मणि बन्धन सूक्त

PreviousNext
स्वर सहित मन्त्र

यं दे॒वाः पि॒तरो॑ मनु॒ष्या उप॒जीव॑न्ति सर्व॒दा। स मा॒यमधि॑ रोहतु म॒णिः श्रैष्ठ्या॑य मूर्ध॒तः ॥

स्वर सहित पद पाठ

यम् । दे॒वाः । पि॒तर॑ः । म॒नु॒ष्या᳡ः । उ॒प॒ऽजीव॑न्ति । स॒र्व॒दा । सः । मा॒ । अ॒यम् । अधि॑ । रो॒ह॒तु॒ । म॒णिः । श्रैष्ठ्या॑य । मू॒र्ध॒तः ॥६.३२॥


स्वर रहित मन्त्र

यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा। स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥


स्वर रहित पद पाठ

यम् । देवाः । पितरः । मनुष्या᳡ः । उपऽजीवन्ति । सर्वदा । सः । मा । अयम् । अधि । रोहतु । मणिः । श्रैष्ठ्याय । मूर्धतः ॥६.३२॥