ऋषिः - बृहस्पतिः

देवता - फालमणिः, वनस्पतिः

छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती

स्वरः - मणि बन्धन सूक्त

PreviousNext
स्वर सहित मन्त्र

यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तमि॒मं दे॒वता॑ म॒णिं प्रत्य॑मुञ्चन्त श॒म्भुव॑म्। स आ॑भ्यो॒ विश्व॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

स्वर सहित पद पाठ

यम् । अब॑ध्नात् । बृह॒स्पति॑ः । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । इ॒मम् । दे॒वता॑ः । म॒णिम् । प्रति॑ । अ॒मु॒ञ्च॒न्त॒ । श॒म्ऽभुव॑म् । सः । आ॒भ्य॒ः । विश्व॑म् । इत् । दु॒हे॒ । भूय॑ःऽभूयः । श्वःऽश्व॑ः । तेन॑ । त्वम् । द्वि॒ष॒तः । ज॒हि॒ ॥६.१७॥


स्वर रहित मन्त्र

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम्। स आभ्यो विश्वमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥


स्वर रहित पद पाठ

यम् । अबध्नात् । बृहस्पतिः । वाताय । मणिम् । आशवे । तम् । इमम् । देवताः । मणिम् । प्रति । अमुञ्चन्त । शम्ऽभुवम् । सः । आभ्यः । विश्वम् । इत् । दुहे । भूयःऽभूयः । श्वःऽश्वः । तेन । त्वम् । द्विषतः । जहि ॥६.१७॥