ऋषिः - बृहस्पतिः

देवता - फालमणिः, वनस्पतिः

छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती

स्वरः - मणि बन्धन सूक्त

PreviousNext
स्वर सहित मन्त्र

यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तं दे॒वा बिभ्र॑तो म॒णिं सर्वां॑ल्लो॒कान्यु॒धाज॑यन्। स ए॑भ्यो॒ जिति॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

स्वर सहित पद पाठ

यम् । अब॑ध्नात् । बृह॒स्पति॑ः । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । देवाः । बिभ्र॑तः । म॒णिम् । सर्वा॑न् । लो॒कान् । यु॒धा । अ॒ज॒य॒न् । सः । ए॒भ्य॒ः । जिति॑म् । इत् । दु॒हे॒ । भूय॑ःऽभूयः। श्वःऽश्व॑ः । तेन॑ । त्वम् । द्वि॒ष॒तः । ज॒हि॒ ॥६.१६॥


स्वर रहित मन्त्र

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तं देवा बिभ्रतो मणिं सर्वांल्लोकान्युधाजयन्। स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥


स्वर रहित पद पाठ

यम् । अबध्नात् । बृहस्पतिः । वाताय । मणिम् । आशवे । तम् । देवाः । बिभ्रतः । मणिम् । सर्वान् । लोकान् । युधा । अजयन् । सः । एभ्यः । जितिम् । इत् । दुहे । भूयःऽभूयः। श्वःऽश्वः । तेन । त्वम् । द्विषतः । जहि ॥६.१६॥