ऋषिः - बृहस्पतिः

देवता - फालमणिः, वनस्पतिः

छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती

स्वरः - मणि बन्धन सूक्त

PreviousNext
स्वर सहित मन्त्र

यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तमापो॒ बिभ्र॑तीर्म॒णिं सदा॑ धाव॒न्त्यक्षि॑ताः। स आ॑भ्यो॒ऽमृत॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

स्वर सहित पद पाठ

यम् । अब॑ध्नात् । बृह॒स्पति॑ः । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । आप॑ः । बिभ्र॑तीः । म॒णिम् । सदा॑ । धा॒व॒न्ति॒ । अक्षि॑ताः । सः । आ॒भ्य॒ः । अ॒मृत॑म् । इत् । दु॒हे॒ । भूय॑ःऽभूयः। श्वःऽश्व॑ः । तेन॑ । त्वम् । द्वि॒ष॒तः । ज॒हि॒ ॥६.१४॥


स्वर रहित मन्त्र

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तमापो बिभ्रतीर्मणिं सदा धावन्त्यक्षिताः। स आभ्योऽमृतमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥


स्वर रहित पद पाठ

यम् । अबध्नात् । बृहस्पतिः । वाताय । मणिम् । आशवे । तम् । आपः । बिभ्रतीः । मणिम् । सदा । धावन्ति । अक्षिताः । सः । आभ्यः । अमृतम् । इत् । दुहे । भूयःऽभूयः। श्वःऽश्वः । तेन । त्वम् । द्विषतः । जहि ॥६.१४॥