ऋषिः - सिन्धुद्वीपः

देवता - प्रजापतिः

छन्दः - त्रिपदा गायत्रीगर्भानुष्टुप्

स्वरः - विजय प्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

राज्ञो॒ वरु॑णस्य ब॒न्धोसि॑। सो॒मुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रमन्ने॑ प्रा॒णे ब॑धान ॥

स्वर सहित पद पाठ

राज्ञ॑ः । वरु॑णस्य । ब॒न्धः । अ॒सि॒ । सः । अ॒मुम् । आ॒मु॒ष्या॒य॒णम् । अ॒मुष्या॑ः । पु॒त्रम् । अन्ने॑ । प्रा॒णे । ब॒धा॒न॒ ॥५.४४॥


स्वर रहित मन्त्र

राज्ञो वरुणस्य बन्धोसि। सोमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान ॥


स्वर रहित पद पाठ

राज्ञः । वरुणस्य । बन्धः । असि । सः । अमुम् । आमुष्यायणम् । अमुष्याः । पुत्रम् । अन्ने । प्राणे । बधान ॥५.४४॥