ऋषिः - सिन्धुद्वीपः
देवता - आपः, चन्द्रमाः
छन्दः - त्रिपदा पुरोऽभिकृतिः ककुम्मतीगर्भापङ्क्तिः
स्वरः - विजय प्राप्ति सूक्त
इन्द्र॑स्य । ओज॑ः । स्थ॒ । इन्द्र॑स्य । सह॑ः । स्थ॒ । इन्द्र॑स्य । बल॑म् । स्थ॒ । इन्द्र॑स्य । वी॒र्य᳡म् । स्थ॒ । इन्द्र॑स्य । नृ॒म्णम् । स्थ॒ । जि॒ष्णवे॑ । योगा॑य । सो॒म॒ऽयो॒गैः । व॒ः । यु॒न॒ज्मि॒ ॥५.४॥
इन्द्रस्य । ओजः । स्थ । इन्द्रस्य । सहः । स्थ । इन्द्रस्य । बलम् । स्थ । इन्द्रस्य । वीर्य᳡म् । स्थ । इन्द्रस्य । नृम्णम् । स्थ । जिष्णवे । योगाय । सोमऽयोगैः । वः । युनज्मि ॥५.४॥