ऋषिः - कौशिकः

देवता - विष्णुक्रमः

छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी अतिशक्वरी

स्वरः - विजय प्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा कृ॒षिसं॑शि॒तोऽन्न॑तेजाः। कृ॒षिमनु॒ वि क्र॑मे॒ऽहं कृ॒ष्यास्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥

स्वर सहित पद पाठ

विष्णो॑ः । क्रम॑ः । अ॒सि॒ । स॒प॒त्न॒ऽहा । कृ॒षिऽसं॑शितः । अन्न॑ऽतेजाः । कृ॒षिम् । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । कृ॒ष्याः । तम् । निः । भ॒जा॒म॒ः । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्मः । सः । मा । जी॒वी॒त् । तम् । प्रा॒णः । ज॒हा॒तु॒ ॥५.३४॥


स्वर रहित मन्त्र

विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः। कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥


स्वर रहित पद पाठ

विष्णोः । क्रमः । असि । सपत्नऽहा । कृषिऽसंशितः । अन्नऽतेजाः । कृषिम् । अनु । वि । क्रमे । अहम् । कृष्याः । तम् । निः । भजामः । यः । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्मः । सः । मा । जीवीत् । तम् । प्राणः । जहातु ॥५.३४॥