ऋषिः - कौशिकः
देवता - विष्णुक्रमः
छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी अतिशक्वरी
स्वरः - विजय प्राप्ति सूक्त
विष्णो॑ः । क्र॒म॑ः । अ॒सि॒ । स॒प॒त्न॒ऽहा । अ॒प्सुऽसं॑शितः । वरु॑णऽतेजाः । अ॒पः । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । अ॒त्ऽभ्यः । तम् । निः । भ॒जा॒म॒ः । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्मः । सः । मा । जी॒वी॒त् । तम् । प्रा॒णः । ज॒हा॒तु॒ ॥५.३३॥
विष्णोः । क्रमः । असि । सपत्नऽहा । अप्सुऽसंशितः । वरुणऽतेजाः । अपः । अनु । वि । क्रमे । अहम् । अत्ऽभ्यः । तम् । निः । भजामः । यः । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्मः । सः । मा । जीवीत् । तम् । प्राणः । जहातु ॥५.३३॥