atharvaveda/10/5/32

विष्णोः॒ क्रमो॑ऽसि सपत्न॒हौष॑धीसंशितः॒ सोम॑तेजाः। ओष॑धी॒रनु॒ वि क्र॑मे॒ऽहमोष॑धीभ्य॒स्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥

विष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । ओष॑धीऽसंशित: । सोम॑ऽतेजा: । ओष॑धी: । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । ओष॑धीभ्य: । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.३२॥

ऋषिः - कौशिकः

देवता - विष्णुक्रमः

छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी

स्वरः - विजय प्राप्ति सूक्त

स्वर सहित मन्त्र

विष्णोः॒ क्रमो॑ऽसि सपत्न॒हौष॑धीसंशितः॒ सोम॑तेजाः। ओष॑धी॒रनु॒ वि क्र॑मे॒ऽहमोष॑धीभ्य॒स्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥

स्वर सहित पद पाठ

विष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । ओष॑धीऽसंशित: । सोम॑ऽतेजा: । ओष॑धी: । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । ओष॑धीभ्य: । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.३२॥


स्वर रहित मन्त्र

विष्णोः क्रमोऽसि सपत्नहौषधीसंशितः सोमतेजाः। ओषधीरनु वि क्रमेऽहमोषधीभ्यस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥


स्वर रहित पद पाठ

विष्णो: । क्रम: । असि । सपत्नऽहा । ओषधीऽसंशित: । सोमऽतेजा: । ओषधी: । अनु । वि । क्रमे । अहम् । ओषधीभ्य: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.३२॥