ऋषिः - कौशिकः

देवता - विष्णुक्रमः

छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी अतिशक्वरी

स्वरः - विजय प्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

विष्णोः॒ क्रमो॑ऽसि सपत्न॒हान्तरि॑क्षसंशितो वा॒युते॑जाः। अ॒न्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ऽहं अ॒न्तरि॑क्षा॒त्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥

स्वर सहित पद पाठ

विष्णो॑ः । क्रम॑ः । अ॒सि॒ । स॒प॒त्न॒ऽहा । अ॒न्तरि॑क्षऽसंशितः । वा॒युऽते॑जाः । अ॒न्तरि॑क्षम् । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । अ॒न्तरि॑क्षात् । तम् । निः । भ॒जा॒म॒ः । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्मः । सः । मा । जी॒वी॒त् । तम् । प्रा॒णः । ज॒हा॒तु॒ ॥५.२६॥


स्वर रहित मन्त्र

विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः। अन्तरिक्षमनु वि क्रमेऽहं अन्तरिक्षात्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥


स्वर रहित पद पाठ

विष्णोः । क्रमः । असि । सपत्नऽहा । अन्तरिक्षऽसंशितः । वायुऽतेजाः । अन्तरिक्षम् । अनु । वि । क्रमे । अहम् । अन्तरिक्षात् । तम् । निः । भजामः । यः । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्मः । सः । मा । जीवीत् । तम् । प्राणः । जहातु ॥५.२६॥