ऋषिः - सिन्धुद्वीपः

देवता - आपः, चन्द्रमाः

छन्दः - अनुष्टुप्

स्वरः - विजय प्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

स॑मु॒द्रं वः॒ प्र हि॑णोमि॒ स्वां योनि॒मपी॑तन। अरि॑ष्टाः॒ सर्व॑हायसो॒ मा च॑ नः॒ किं च॒नाम॑मत् ॥

स्वर सहित पद पाठ

स॒मु॒द्रम् । व॒ः । प्र । हि॒णो॒मि॒ । स्वाम् । योनि॑म् । अपि॑ । इ॒त॒न॒ । अरि॑ष्टाः । सर्व॑ऽहायसः । मा । च॒ । न॒ः । किम् । च॒न । आ॒म॒म॒त् ॥५.२३॥


स्वर रहित मन्त्र

समुद्रं वः प्र हिणोमि स्वां योनिमपीतन। अरिष्टाः सर्वहायसो मा च नः किं चनाममत् ॥


स्वर रहित पद पाठ

समुद्रम् । वः । प्र । हिणोमि । स्वाम् । योनिम् । अपि । इतन । अरिष्टाः । सर्वऽहायसः । मा । च । नः । किम् । चन । आममत् ॥५.२३॥