ऋषिः - सिन्धुद्वीपः

देवता - आपः, चन्द्रमाः

छन्दः - त्र्यवसाना पञ्चपदा विपरीतपादलक्ष्मा बृहती

स्वरः - विजय प्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

य॒मस्य॑ भा॒ग स्थ॑। अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त। प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥

स्वर सहित पद पाठ

य॒मस्य॑ । भा॒गः । स्थ॒ । अ॒पाम् । शु॒क्रम् । आ॒प॒ः । दे॒वी॒ः । वर्च॑ः । अ॒स्मासु॑ । ध॒त्त॒ । प्र॒जाऽप॑तेः । व॒ः । धाम्ना॑ । अ॒स्मै । लो॒काय॑ । सा॒द॒ये॒ ॥५.१२॥


स्वर रहित मन्त्र

यमस्य भाग स्थ। अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त। प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥


स्वर रहित पद पाठ

यमस्य । भागः । स्थ । अपाम् । शुक्रम् । आपः । देवीः । वर्चः । अस्मासु । धत्त । प्रजाऽपतेः । वः । धाम्ना । अस्मै । लोकाय । सादये ॥५.१२॥