ऋषिः - गरुत्मान्

देवता - तक्षकः

छन्दः - अनुष्टुप्

स्वरः - सर्पविषदूरीकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

अही॑नां॒ सर्वे॑षां वि॒षं परा॑ वहन्तु सिन्धवः। ह॒तास्तिर॑श्चिराजयो॒ निपि॑ष्टासः॒ पृदा॑कवः ॥

स्वर सहित पद पाठ

अही॑नाम् । सर्वे॑षाम् । वि॒षम् । परा॑ । व॒ह॒न्तु॒ । सिन्ध॑वः । ह॒ताः । तिर॑श्चिऽराजयः । निऽपि॑ष्टासः । पृदा॑कवः ॥४.२०॥


स्वर रहित मन्त्र

अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः। हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥


स्वर रहित पद पाठ

अहीनाम् । सर्वेषाम् । विषम् । परा । वहन्तु । सिन्धवः । हताः । तिरश्चिऽराजयः । निऽपिष्टासः । पृदाकवः ॥४.२०॥