ऋषिः - अथर्वा

देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः

छन्दः - अनुष्टुप्

स्वरः - सपत्नक्षयणवरणमणि सूक्त

PreviousNext
स्वर सहित मन्त्र

व॑र॒णेन॒ प्रव्य॑थिता॒ भ्रातृ॑व्या मे॒ सब॑न्धवः। अ॒सूर्तं॒ रजो॒ अप्य॑गु॒स्ते य॑न्त्वध॒मं तमः॑ ॥

स्वर सहित पद पाठ

व॒र॒णेन॑ । प्रऽव्य॑थिताः । भ्रातृ॑व्याः । मे॒ । सऽब॑न्धवः । अ॒सूर्त॑म् । रज॑ः । अपि॑ । अ॒गु॒ः । ते । य॒न्तु॒ । अ॒ध॒मम् । तम॑ः ॥३.९॥


स्वर रहित मन्त्र

वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः। असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः ॥


स्वर रहित पद पाठ

वरणेन । प्रऽव्यथिताः । भ्रातृव्याः । मे । सऽबन्धवः । असूर्तम् । रजः । अपि । अगुः । ते । यन्तु । अधमम् । तमः ॥३.९॥