ऋषिः - अथर्वा

देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः

छन्दः - अनुष्टुप्

स्वरः - सपत्नक्षयणवरणमणि सूक्त

PreviousNext
स्वर सहित मन्त्र

अरा॑त्यास्त्वा॒ निरृ॑त्या अभिचा॒रादथो॑ भ॒यात्। मृ॒त्योरोजी॑यसो व॒धाद्व॑र॒णो वा॑रयिष्यते ॥

स्वर सहित पद पाठ

अरा॑त्याः । त्वा॒ । निःऽऋ॑त्याः । अ॒भि॒ऽचा॒रात् । अथो॒ इति॑ । भ॒यात् । मृ॒त्योः । ओजी॑यसः । व॒धात् । व॒र॒णः । वा॒र॒यि॒ष्य॒ते॒ ॥३.७॥


स्वर रहित मन्त्र

अरात्यास्त्वा निरृत्या अभिचारादथो भयात्। मृत्योरोजीयसो वधाद्वरणो वारयिष्यते ॥


स्वर रहित पद पाठ

अरात्याः । त्वा । निःऽऋत्याः । अभिऽचारात् । अथो इति । भयात् । मृत्योः । ओजीयसः । वधात् । वरणः । वारयिष्यते ॥३.७॥