atharvaveda/10/3/6

स्वप्नं॑ सु॒प्त्वा यदि॒ पश्या॑सि पा॒पं मृ॒गः सृ॒तिं यति॒ धावा॒दजु॑ष्टाम्। प॑रिक्ष॒वाच्छ॒कुनेः॑ पापवा॒दाद॒यं म॒णिर्व॑र॒णो वा॑रयिष्यते ॥

स्वप्न॑म् । सु॒प्त्वा । यदि॑ । पश्या॑सि । पा॒पम् । मृ॒ग: । सृ॒तिम् । यति॑ । धावा॑त् । अजु॑ष्टाम् । प॒रि॒ऽक्ष॒वात् । श॒कुने॑: । पा॒प॒ऽवा॒दात् । अ॒यम् । म॒णि: । व॒र॒ण: । वा॒र॒यि॒ष्य॒ते॒ ॥३.६॥

ऋषिः - अथर्वा

देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - सपत्नक्षयणवरणमणि सूक्त

स्वर सहित मन्त्र

स्वप्नं॑ सु॒प्त्वा यदि॒ पश्या॑सि पा॒पं मृ॒गः सृ॒तिं यति॒ धावा॒दजु॑ष्टाम्। प॑रिक्ष॒वाच्छ॒कुनेः॑ पापवा॒दाद॒यं म॒णिर्व॑र॒णो वा॑रयिष्यते ॥

स्वर सहित पद पाठ

स्वप्न॑म् । सु॒प्त्वा । यदि॑ । पश्या॑सि । पा॒पम् । मृ॒ग: । सृ॒तिम् । यति॑ । धावा॑त् । अजु॑ष्टाम् । प॒रि॒ऽक्ष॒वात् । श॒कुने॑: । पा॒प॒ऽवा॒दात् । अ॒यम् । म॒णि: । व॒र॒ण: । वा॒र॒यि॒ष्य॒ते॒ ॥३.६॥


स्वर रहित मन्त्र

स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम्। परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते ॥


स्वर रहित पद पाठ

स्वप्नम् । सुप्त्वा । यदि । पश्यासि । पापम् । मृग: । सृतिम् । यति । धावात् । अजुष्टाम् । परिऽक्षवात् । शकुने: । पापऽवादात् । अयम् । मणि: । वरण: । वारयिष्यते ॥३.६॥