atharvaveda/10/3/18

यथा॒ यश॑श्च॒न्द्रम॑स्यादि॒त्ये च॑ नृ॒चक्ष॑सि। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥

यथा॑ । यश॑: । च॒न्द्रम॑सि । आ॒दि॒त्ये । च॒ । नृ॒ऽचक्ष॑सि । ए॒व । मे॒ । व॒र॒ण: । म॒णि: । की॒र्तिम्‌ । भूति॑म् । नि । य॒च्छ॒तु॒ । तेज॑सा । मा॒ । सम् । उ॒क्ष॒तु॒ । यश॑सा । सम् । अ॒न॒क्तु॒ । मा॒ ॥३.१८॥

ऋषिः - अथर्वा

देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः

छन्दः - अनुष्टुप्

स्वरः - सपत्नक्षयणवरणमणि सूक्त

स्वर सहित मन्त्र

यथा॒ यश॑श्च॒न्द्रम॑स्यादि॒त्ये च॑ नृ॒चक्ष॑सि। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥

स्वर सहित पद पाठ

यथा॑ । यश॑: । च॒न्द्रम॑सि । आ॒दि॒त्ये । च॒ । नृ॒ऽचक्ष॑सि । ए॒व । मे॒ । व॒र॒ण: । म॒णि: । की॒र्तिम्‌ । भूति॑म् । नि । य॒च्छ॒तु॒ । तेज॑सा । मा॒ । सम् । उ॒क्ष॒तु॒ । यश॑सा । सम् । अ॒न॒क्तु॒ । मा॒ ॥३.१८॥


स्वर रहित मन्त्र

यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि। एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु। तेजसा मा समुक्षतु यशसा समनक्तु मा ॥


स्वर रहित पद पाठ

यथा । यश: । चन्द्रमसि । आदित्ये । च । नृऽचक्षसि । एव । मे । वरण: । मणि: । कीर्तिम्‌ । भूतिम् । नि । यच्छतु । तेजसा । मा । सम् । उक्षतु । यशसा । सम् । अनक्तु । मा ॥३.१८॥