ऋषिः - अथर्वा

देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः

छन्दः - अनुष्टुप्

स्वरः - सपत्नक्षयणवरणमणि सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒यं मे॑ वर॒णो म॒णिः स॑पत्न॒क्षय॑णो॒ वृषा॑। ते॒ना र॑भस्व॒ त्वं शत्रू॒न्प्र मृ॑णीहि दुरस्य॒तः ॥

स्वर सहित पद पाठ

अयम् । मे॒ । व॒र॒णः । म॒णिः । स॒प॒त्न॒ऽक्षय॑णः । वृषा॑ । तेन॑ । आ । र॒भ॒स्व॒ । त्वम् । शत्रू॑न् । प्र । मृ॒णी॒हि॒ । दु॒र॒स्य॒तः ॥३.१॥


स्वर रहित मन्त्र

अयं मे वरणो मणिः सपत्नक्षयणो वृषा। तेना रभस्व त्वं शत्रून्प्र मृणीहि दुरस्यतः ॥


स्वर रहित पद पाठ

अयम् । मे । वरणः । मणिः । सपत्नऽक्षयणः । वृषा । तेन । आ । रभस्व । त्वम् । शत्रून् । प्र । मृणीहि । दुरस्यतः ॥३.१॥