ऋषिः - नारायणः

देवता - ब्रह्मप्रकाशनम्, पुरुषः

छन्दः - त्रिष्टुप्

स्वरः - ब्रह्मप्रकाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

हन्वो॒र्हि जि॒ह्वामद॑धात्पुरू॒चीमधा॑ म॒हीमधि॑ शिश्राय॒ वाच॑म्। स आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तर॒पो वसा॑नः॒ क उ॒ तच्चि॑केत ॥

स्वर सहित पद पाठ

हन्वो॑ः । हि । जि॒ह्वाम् । अद॑धात् । पु॒रू॒चीम् । अध॑ । म॒हीम् । अधि॑ । शि॒श्रा॒य॒ । वाच॑म् । सः । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्तः । अ॒पः । वसा॑नः । कः । ऊं॒ इति॑ । तत् । चि॒के॒त॒ ॥२.७॥


स्वर रहित मन्त्र

हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम्। स आ वरीवर्ति भुवनेष्वन्तरपो वसानः क उ तच्चिकेत ॥


स्वर रहित पद पाठ

हन्वोः । हि । जिह्वाम् । अदधात् । पुरूचीम् । अध । महीम् । अधि । शिश्राय । वाचम् । सः । आ । वरीवर्ति । भुवनेषु । अन्तः । अपः । वसानः । कः । ऊं इति । तत् । चिकेत ॥२.७॥