ऋषिः - नारायणः
देवता - साक्षात्परब्रह्मप्रकाशनम्
छन्दः - अनुष्टुप्
स्वरः - ब्रह्मप्रकाशन सूक्त
अ॒ष्टाऽच॑क्रा । नव॑ऽद्वारा । दे॒वाना॑म् । पूः । अ॒यो॒ध्या । तस्या॑म् । हि॒र॒ण्यय॑ः । कोश॑ः । स्व॒ःऽगः । ज्योति॑षा । आऽवृ॑तः ॥२.३१॥
अष्टाऽचक्रा । नवऽद्वारा । देवानाम् । पूः । अयोध्या । तस्याम् । हिरण्ययः । कोशः । स्वःऽगः । ज्योतिषा । आऽवृतः ॥२.३१॥