ऋषिः - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
स्वरः - ब्रह्मप्रकाशन सूक्त
यः । वै । ताम् । ब्रह्म॑णः । वेद॑ । अ॒मृते॑न । आऽवृ॑ताम् । पुर॑म् । तस्मै॑ । ब्रह्म॑ । च॒ । ब्रा॒ह्माः । च॒ । चक्षु॑ः । प्रा॒णम् । प्र॒ऽजाम् । द॒दु॒ः ॥२.२९॥
यः । वै । ताम् । ब्रह्मणः । वेद । अमृतेन । आऽवृताम् । पुरम् । तस्मै । ब्रह्म । च । ब्राह्माः । च । चक्षुः । प्राणम् । प्रऽजाम् । ददुः ॥२.२९॥