ऋषिः - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
स्वरः - ब्रह्मप्रकाशन सूक्त
कः । अ॒स्मि॒न् । रेत॑ः । नि । अ॒द॒धा॒त् । तन्तु॑ः । आ । ता॒य॒ता॒म् । इति॑ । मे॒धाम् । कः । अ॒स्मि॒न् । अधि॑ । औ॒ह॒त् । कः । बा॒णम् । कः । नृत॑ः । द॒धौ॒ ॥२.१७॥
कः । अस्मिन् । रेतः । नि । अदधात् । तन्तुः । आ । तायताम् । इति । मेधाम् । कः । अस्मिन् । अधि । औहत् । कः । बाणम् । कः । नृतः । दधौ ॥२.१७॥