ऋषिः - नारायणः

देवता - ब्रह्मप्रकाशनम्, पुरुषः

छन्दः - अनुष्टुप्

स्वरः - ब्रह्मप्रकाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

केनापो॒ अन्व॑तनुत॒ केना॑हरकरोद्रु॒चे। उ॒षसं॒ केनान्वै॑न्द्ध॒ केन॑ सायंभ॒वं द॑दे ॥

स्वर सहित पद पाठ

केन॑ । आप॑ः । अनु॑ । अ॒त॒नु॒त॒ । केन॑ । अह॑ः । अ॒क॒रो॒त् । रु॒चे । उ॒षस॑म् । केन॑ । अनु॑ । ऐ॒न्ध्द॒ । केन॑ । सा॒य॒म्ऽभ॒वम् । द॒दे॒ ॥२.१६॥


स्वर रहित मन्त्र

केनापो अन्वतनुत केनाहरकरोद्रुचे। उषसं केनान्वैन्द्ध केन सायंभवं ददे ॥


स्वर रहित पद पाठ

केन । आपः । अनु । अतनुत । केन । अहः । अकरोत् । रुचे । उषसम् । केन । अनु । ऐन्ध्द । केन । सायम्ऽभवम् । ददे ॥२.१६॥