ऋषिः - नारायणः

देवता - ब्रह्मप्रकाशनम्, पुरुषः

छन्दः - अनुष्टुप्

स्वरः - ब्रह्मप्रकाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

को अ॑स्मिन्य॒ज्ञम॑दधा॒देको॑ दे॒वोऽधि॒ पूरु॑षे। को अ॑स्मिन्त्स॒त्यं कोऽनृ॑तं॒ कुतो॑ मृ॒त्युः कुतो॒ऽमृत॑म् ॥

स्वर सहित पद पाठ

कः । अ॒स्मि॒न् । य॒ज्ञम् । अ॒द॒धा॒त् । एक॑ः । दे॒वः । अधि॑ । पुरु॑षे । कः । अ॒स्मि॒न् । स॒त्यम् । कः । अनृ॑तम् । कुत॑ः । मृ॒त्युः । कुत॑ः । अ॒मृत॑म् ॥२.१४॥


स्वर रहित मन्त्र

को अस्मिन्यज्ञमदधादेको देवोऽधि पूरुषे। को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम् ॥


स्वर रहित पद पाठ

कः । अस्मिन् । यज्ञम् । अदधात् । एकः । देवः । अधि । पुरुषे । कः । अस्मिन् । सत्यम् । कः । अनृतम् । कुतः । मृत्युः । कुतः । अमृतम् ॥२.१४॥