ऋषिः - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - जगती
स्वरः - ब्रह्मप्रकाशन सूक्त
कः । अ॒स्मि॒न् । आप॑ः । वि । अ॒द॒धा॒त् । वि॒षु॒ऽवृत॑ः । पु॒रु॒ःऽवृत॑ः । सि॒न्धु॒ऽसृत्या॑य । जा॒ताः । ती॒व्राः । अ॒रु॒णाः । लोहि॑नीः । ता॒म्र॒ऽधू॒म्नाः । ऊ॒र्ध्वाः । अवा॑चीः । पुरु॑षे । ति॒रश्ची॑ः ॥२.११॥
कः । अस्मिन् । आपः । वि । अदधात् । विषुऽवृतः । पुरुःऽवृतः । सिन्धुऽसृत्याय । जाताः । तीव्राः । अरुणाः । लोहिनीः । ताम्रऽधूम्नाः । ऊर्ध्वाः । अवाचीः । पुरुषे । तिरश्चीः ॥२.११॥