ऋषिः - कश्यपः
देवता - वशा
छन्दः - उष्णिग्गर्भानुष्टुप्
स्वरः - वशागौ सूक्त
व॒शाया॑ः । दु॒ग्धम् । पी॒त्वा । सा॒ध्याः । वस॑वः । च॒ । ये । ते । वै । ब्र॒ध्नस्य॑ । वि॒ष्टपि॑ । पय॑ः । अ॒स्या॒ः । उप॑ । आ॒स॒ते॒ ॥१०.३१॥
वशायाः । दुग्धम् । पीत्वा । साध्याः । वसवः । च । ये । ते । वै । ब्रध्नस्य । विष्टपि । पयः । अस्याः । उप । आसते ॥१०.३१॥