ऋषिः - कश्यपः

देवता - वशा

छन्दः - अनुष्टुप्

स्वरः - वशागौ सूक्त

PreviousNext
स्वर सहित मन्त्र

व॒शा द्यौर्व॒शा पृ॑थि॒वी व॒शा विष्णुः॑ प्र॒जाप॑तिः। व॒शाया॑ दु॒ग्धम॑पिबन्त्सा॒ध्या वस॑वश्च ये ॥

स्वर सहित पद पाठ

व॒शा । द्यौः । व॒शा । पृ॒थि॒वी । व॒शा । विष्णु॑ः । प्र॒जाऽप॑तिः । व॒शाया॑ः । दु॒ग्धम् । अ॒पि॒ब॒न् । सा॒ध्याः । वस॑वः । च॒ । ये ॥१०.३०॥


स्वर रहित मन्त्र

वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः। वशाया दुग्धमपिबन्त्साध्या वसवश्च ये ॥


स्वर रहित पद पाठ

वशा । द्यौः । वशा । पृथिवी । वशा । विष्णुः । प्रजाऽपतिः । वशायाः । दुग्धम् । अपिबन् । साध्याः । वसवः । च । ये ॥१०.३०॥