ऋषिः - कश्यपः
देवता - वशा
छन्दः - त्रिपदा विराड्गायत्री
स्वरः - वशागौ सूक्त
च॒तु॒ःऽधा । रेत॑ः । अ॒भ॒व॒त् । व॒शाया॑ः । आप॑ः । तुरी॑यम् । अ॒मृत॑म् । तुरी॑यम् । य॒ज्ञः । तुरी॑यम् । प॒शव॑ः । तुरी॑यम् ॥१०.२९॥
चतुःऽधा । रेतः । अभवत् । वशायाः । आपः । तुरीयम् । अमृतम् । तुरीयम् । यज्ञः । तुरीयम् । पशवः । तुरीयम् ॥१०.२९॥