ऋषिः - कश्यपः

देवता - वशा

छन्दः - उपरिष्टाद्बृहती

स्वरः - वशागौ सूक्त

PreviousNext
स्वर सहित मन्त्र

युध॒ एकः॒ सं सृ॑जति॒ यो अ॑स्या॒ एक॒ इद्व॒शी। तरां॑सि य॒ज्ञा अ॑भव॒न्तर॑सां॒ चक्षु॑रभवद्व॒शा ॥

स्वर सहित पद पाठ

युध॑ः । एक॑ः । सम् । सृ॒ज॒ति॒ । यः । अ॒स्या॒ः । एक॑ः । इत् । व॒शी । तरां॑सि । य॒ज्ञा । अ॒भ॒व॒न् । तर॑साम् । चक्षु॑ः । अ॒भ॒व॒त् । व॒शा ॥१०.२४॥


स्वर रहित मन्त्र

युध एकः सं सृजति यो अस्या एक इद्वशी। तरांसि यज्ञा अभवन्तरसां चक्षुरभवद्वशा ॥


स्वर रहित पद पाठ

युधः । एकः । सम् । सृजति । यः । अस्याः । एकः । इत् । वशी । तरांसि । यज्ञा । अभवन् । तरसाम् । चक्षुः । अभवत् । वशा ॥१०.२४॥