ऋषिः - कश्यपः

देवता - वशा

छन्दः - अनुष्टुप्

स्वरः - वशागौ सूक्त

PreviousNext
स्वर सहित मन्त्र

ई॒र्माभ्या॒मय॑नं जा॒तं सक्थि॑भ्यां च वशे॒ तव॑। आ॒न्त्रेभ्यो॑ जज्ञिरे अ॒त्रा उ॒दरा॒दधि॑ वी॒रुधः॑ ॥

स्वर सहित पद पाठ

ई॒र्माभ्या॑म्‌ । अय॑नम् । जा॒तम् । सक्थि॑ऽभ्याम् । च॒ । व॒शे॒ । तव॑ । आ॒न्त्रेभ्य॑ः । ज॒ज्ञि॒रे॒ । अ॒त्राः । उ॒दरा॑त् । अधि॑ । वी॒रुध॑ः ॥१०.२१॥


स्वर रहित मन्त्र

ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव। आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः ॥


स्वर रहित पद पाठ

ईर्माभ्याम्‌ । अयनम् । जातम् । सक्थिऽभ्याम् । च । वशे । तव । आन्त्रेभ्यः । जज्ञिरे । अत्राः । उदरात् । अधि । वीरुधः ॥१०.२१॥