ऋषिः - कश्यपः

देवता - वशा

छन्दः - अनुष्टुप्

स्वरः - वशागौ सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒भीवृ॑ता॒ हिर॑ण्येन॒ यद॑तिष्ठ ऋतावरि। अश्वः॑ समु॒द्रो भू॒त्वाध्य॑स्कन्दद्वशे त्वा ॥

स्वर सहित पद पाठ

अ॒भिऽवृ॑ता । हिर॑ण्येन । यत् । अति॑ष्ठः । ऋ॒त॒ऽव॒रि॒ । अश्व॑ः । स॒मु॒द्रः । भू॒त्वा । अधि॑ । अ॒स्क॒न्द॒त् । व॒शे॒ । त्वा॒ ॥१०.१६॥


स्वर रहित मन्त्र

अभीवृता हिरण्येन यदतिष्ठ ऋतावरि। अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा ॥


स्वर रहित पद पाठ

अभिऽवृता । हिरण्येन । यत् । अतिष्ठः । ऋतऽवरि । अश्वः । समुद्रः । भूत्वा । अधि । अस्कन्दत् । वशे । त्वा ॥१०.१६॥