ऋषिः - कश्यपः

देवता - वशा

छन्दः - अनुष्टुप्

स्वरः - वशागौ सूक्त

PreviousNext
स्वर सहित मन्त्र

सं हि सूर्ये॑णागत॒ समु॒ सर्वे॑ण॒ चक्षु॑षा। व॒शा स॑मु॒द्रमत्य॑ख्यद्भ॒द्रा ज्योतीं॑षि॒ बिभ्र॑ती ॥

स्वर सहित पद पाठ

सम् । हि । सूर्ये॑ण । अग॑त । सम् । ऊं॒ इति॑ । सर्वे॑ण । चक्षु॑षा । व॒शा । स॒मु॒द्रम् । अति॑ । अ॒ख्य॒त् । भ॒द्रा । ज्योतीं॑षि । बिभ्र॑ती ॥१०.१५॥


स्वर रहित मन्त्र

सं हि सूर्येणागत समु सर्वेण चक्षुषा। वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती ॥


स्वर रहित पद पाठ

सम् । हि । सूर्येण । अगत । सम् । ऊं इति । सर्वेण । चक्षुषा । वशा । समुद्रम् । अति । अख्यत् । भद्रा । ज्योतींषि । बिभ्रती ॥१०.१५॥