ऋषिः - कश्यपः

देवता - वशा

छन्दः - अनुष्टुप्

स्वरः - वशागौ सूक्त

PreviousNext
स्वर सहित मन्त्र

सं हि सोमे॒नाग॑त॒ समु॒ सर्वे॑ण प॒द्वता॑। व॒शा स॑मु॒द्रमध्य॑ष्ठाद्गन्ध॒र्वैः क॒लिभिः॑ स॒ह ॥

स्वर सहित पद पाठ

सम् । हि । सोमे॑न । अग॑त । सम् । ऊं॒ इति॑ । सर्वे॑ण । प॒त्ऽवता॑ । व॒शा । स॒मु॒द्रम् । अधि॑ । अ॒स्था॒त् । ग॒न्ध॒र्वैः । क॒लिऽभि॑ः । स॒ह ॥१०.१३॥


स्वर रहित मन्त्र

सं हि सोमेनागत समु सर्वेण पद्वता। वशा समुद्रमध्यष्ठाद्गन्धर्वैः कलिभिः सह ॥


स्वर रहित पद पाठ

सम् । हि । सोमेन । अगत । सम् । ऊं इति । सर्वेण । पत्ऽवता । वशा । समुद्रम् । अधि । अस्थात् । गन्धर्वैः । कलिऽभिः । सह ॥१०.१३॥