ऋषिः - कश्यपः
देवता - वशा
छन्दः - अनुष्टुप्
स्वरः - वशागौ सूक्त
यत् । ते॒ । क्रु॒ध्दः । धन॑ऽपतिः । आ । क्षी॒रम् । अह॑रत् । व॒शे॒ । इ॒दम् । तत् । अ॒द्य । नाक॑ः । त्रि॒षु । पात्रे॑षु । र॒क्ष॒ति॒ ॥१०.११॥
यत् । ते । क्रुध्दः । धनऽपतिः । आ । क्षीरम् । अहरत् । वशे । इदम् । तत् । अद्य । नाकः । त्रिषु । पात्रेषु । रक्षति ॥१०.११॥