ऋषिः - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - अनुष्टुप्
स्वरः - कृत्यादूषण सूक्त
यः । ते॒ । परूं॑षि । स॒म्ऽद॒धौ । रथ॑स्यऽइव । ऋ॒भुः । धि॒या । तम् । ग॒च्छ॒ । तत्र॑ । ते॒ । अय॑नम् । अज्ञा॑तः । ते॒ । अ॒यम् । जन॑ः ॥१.८॥
यः । ते । परूंषि । सम्ऽदधौ । रथस्यऽइव । ऋभुः । धिया । तम् । गच्छ । तत्र । ते । अयनम् । अज्ञातः । ते । अयम् । जनः ॥१.८॥