ऋषिः - प्रत्यङ्गिरसः

देवता - कृत्यादूषणम्

छन्दः - अनुष्टुप्

स्वरः - कृत्यादूषण सूक्त

PreviousNext
स्वर सहित मन्त्र

प्र॑ती॒चीन॑ आङ्गिर॒सोऽध्य॑क्षो नः पु॒रोहि॑तः। प्र॒तीचीः॑ कृ॒त्या आ॒कृत्या॒मून्कृ॑त्या॒कृतो॑ जहि ॥

स्वर सहित पद पाठ

प्र॒ती॒चीन॑ः । अ॒ङ्गि॒र॒सः । अधि॑ऽअक्षः । न॒ः । पु॒रःऽहि॑तः । प्र॒तीची॑ः । कृ॒त्याः । आ॒ऽकृत्य॑ । अ॒मून् । कृ॒त्या॒ऽकृत॑ः । ज॒हि॒ ॥१.६॥


स्वर रहित मन्त्र

प्रतीचीन आङ्गिरसोऽध्यक्षो नः पुरोहितः। प्रतीचीः कृत्या आकृत्यामून्कृत्याकृतो जहि ॥


स्वर रहित पद पाठ

प्रतीचीनः । अङ्गिरसः । अधिऽअक्षः । नः । पुरःऽहितः । प्रतीचीः । कृत्याः । आऽकृत्य । अमून् । कृत्याऽकृतः । जहि ॥१.६॥