ऋषिः - प्रत्यङ्गिरसः

देवता - कृत्यादूषणम्

छन्दः - द्व्यनुष्टुब्गर्भा पञ्चपदातिजगती

स्वरः - कृत्यादूषण सूक्त

PreviousNext
स्वर सहित मन्त्र

यथा॒ सूर्यो॑ मु॒च्यते॒ तम॑स॒स्परि॒ रात्रिं॒ जहा॑त्यु॒षस॑श्च के॒तून्। ए॒वाहं सर्वं॑ दुर्भू॒तं कर्त्रं॑ कृत्या॒कृता॑ कृ॒तं ह॒स्तीव॒ रजो॑ दुरि॒तं ज॑हामि ॥

स्वर सहित पद पाठ

यथा॑ । सूर्य॑ः । मु॒च्यते॑ । तम॑सः । परि॑ । रात्रि॑म् । जहा॑ति । उ॒षस॑ः । च॒ । के॒तून् । ए॒व । अ॒हम् । सर्व॑म् । दु॒ःऽभू॒तम् । कर्त्र॑म् । कृ॒त्या॒ऽकृता॑ । कृ॒तम् । ह॒स्तीऽइव॑ । रज॑ः । दु॒ःऽइ॒तम् । ज॒हा॒मि॒ ॥१.३२॥


स्वर रहित मन्त्र

यथा सूर्यो मुच्यते तमसस्परि रात्रिं जहात्युषसश्च केतून्। एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि ॥


स्वर रहित पद पाठ

यथा । सूर्यः । मुच्यते । तमसः । परि । रात्रिम् । जहाति । उषसः । च । केतून् । एव । अहम् । सर्वम् । दुःऽभूतम् । कर्त्रम् । कृत्याऽकृता । कृतम् । हस्तीऽइव । रजः । दुःऽइतम् । जहामि ॥१.३२॥