ऋषिः - प्रत्यङ्गिरसः

देवता - कृत्यादूषणम्

छन्दः - मध्ये ज्योतिष्मती जगती

स्वरः - कृत्यादूषण सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॑नागोह॒त्या वै भी॒मा कृ॑त्ये॒ मा नो॒ गामश्वं॒ पुरु॑षं वधीः। यत्र॑य॒त्रासि॒ निहि॑ता॒ तत॒स्त्वोत्था॑पयामसि प॒र्णाल्लघी॑यसी भव ॥

स्वर सहित पद पाठ

अ॒ना॒ग॒ःऽह॒त्या । वै । भी॒मा । कृ॒त्ये॒ । मा । न॒ः । गाम् । अश्व॑म् । पुरु॑षम् । व॒धी॒ः । यत्र॑ऽयत्र । असि॑ । निऽहि॑ता । तत॑ः । त्वा॒ । उत् । स्था॒प॒या॒म॒सि॒ । प॒र्णात् । लघी॑यसी । भ॒व॒ ॥१.२९॥


स्वर रहित मन्त्र

अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः। यत्रयत्रासि निहिता ततस्त्वोत्थापयामसि पर्णाल्लघीयसी भव ॥


स्वर रहित पद पाठ

अनागःऽहत्या । वै । भीमा । कृत्ये । मा । नः । गाम् । अश्वम् । पुरुषम् । वधीः । यत्रऽयत्र । असि । निऽहिता । ततः । त्वा । उत् । स्थापयामसि । पर्णात् । लघीयसी । भव ॥१.२९॥