atharvaveda/1/8/4

यत्रै॑षामग्ने॒ जनि॑मानि॒ वेत्थ॒ गुहा॑ स॒ताम॒त्त्रिणां॑ जातवेदः। तांस्त्वं ब्रह्म॑णा वावृधा॒नो ज॒ह्ये॑षां शत॒तर्ह॑मग्ने ॥

यत्र॑ । ए॒षा॒म् । अ॒ग्ने॒ । जनि॑मानि । वेत्थ॑ । गुहा॑ । स॒ताम् । अ॒त्त्रिणा॑म् । जा॒त॒ऽवे॒द॒:।तान् । त्वम् । ब्रह्म॑णा । व॒वृधा॒न: । ज॒हि । ए॒षा॒म् । श॒त॒ऽतर्ह॑म् । अ॒ग्ने॒ ॥

ऋषिः - चातनः

देवता - अग्निः

छन्दः - बार्हतगर्भा त्रिष्टुप्

स्वरः - यातुधाननाशन सूक्त

स्वर सहित मन्त्र

यत्रै॑षामग्ने॒ जनि॑मानि॒ वेत्थ॒ गुहा॑ स॒ताम॒त्त्रिणां॑ जातवेदः। तांस्त्वं ब्रह्म॑णा वावृधा॒नो ज॒ह्ये॑षां शत॒तर्ह॑मग्ने ॥

स्वर सहित पद पाठ

यत्र॑ । ए॒षा॒म् । अ॒ग्ने॒ । जनि॑मानि । वेत्थ॑ । गुहा॑ । स॒ताम् । अ॒त्त्रिणा॑म् । जा॒त॒ऽवे॒द॒:।तान् । त्वम् । ब्रह्म॑णा । व॒वृधा॒न: । ज॒हि । ए॒षा॒म् । श॒त॒ऽतर्ह॑म् । अ॒ग्ने॒ ॥


स्वर रहित मन्त्र

यत्रैषामग्ने जनिमानि वेत्थ गुहा सतामत्त्रिणां जातवेदः। तांस्त्वं ब्रह्मणा वावृधानो जह्येषां शततर्हमग्ने ॥


स्वर रहित पद पाठ

यत्र । एषाम् । अग्ने । जनिमानि । वेत्थ । गुहा । सताम् । अत्त्रिणाम् । जातऽवेद:।तान् । त्वम् । ब्रह्मणा । ववृधान: । जहि । एषाम् । शतऽतर्हम् । अग्ने ॥