atharvaveda/1/8/3

या॑तु॒धान॑स्य सोमप ज॒हि प्र॒जां नय॑स्व च। नि स्तु॑वा॒नस्य॑ पातय॒ पर॒मक्ष्यु॒ताव॑रम् ॥

या॒तु॒ऽधान॑स्य । सो॒म॒ऽप॒ । ज॒हि । प्र॒ऽजाम् । नय॑स्व । च॒ । ‍नि:। स्तु॒वा॒नस्य॑ । पा॒त॒य॒ । पर॑म् । अक्षि॑ । उ॒त । अव॑रम् ॥

ऋषिः - चातनः

देवता - अग्निः

छन्दः - अनुष्टुप्

स्वरः - यातुधाननाशन सूक्त

स्वर सहित मन्त्र

या॑तु॒धान॑स्य सोमप ज॒हि प्र॒जां नय॑स्व च। नि स्तु॑वा॒नस्य॑ पातय॒ पर॒मक्ष्यु॒ताव॑रम् ॥

स्वर सहित पद पाठ

या॒तु॒ऽधान॑स्य । सो॒म॒ऽप॒ । ज॒हि । प्र॒ऽजाम् । नय॑स्व । च॒ । ‍नि:। स्तु॒वा॒नस्य॑ । पा॒त॒य॒ । पर॑म् । अक्षि॑ । उ॒त । अव॑रम् ॥


स्वर रहित मन्त्र

यातुधानस्य सोमप जहि प्रजां नयस्व च। नि स्तुवानस्य पातय परमक्ष्युतावरम् ॥


स्वर रहित पद पाठ

यातुऽधानस्य । सोमऽप । जहि । प्रऽजाम् । नयस्व । च । ‍नि:। स्तुवानस्य । पातय । परम् । अक्षि । उत । अवरम् ॥