ऋषिः - चातनः

देवता - अग्निः

छन्दः - त्रिष्टुप्

स्वरः - यातुधाननाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

पश्या॑म ते वी॒र्यं॑ जातवेदः॒ प्र णो॑ ब्रूहि यातु॒धाना॑न्नृचक्षः। त्वया॒ सर्वे॒ परि॑तप्ताः पु॒रस्ता॒त्त आ य॑न्तु प्रब्रुवा॒णा उपे॒दम् ॥

स्वर सहित पद पाठ

पश्या॑म । ते॒ । वी॒र्यम् । जा॒त॒वे॒द॒ः । प्र । न॒ः । ब्रू॒हि॒ । या॒तु॒धाना॑न् । नृ॒च॒क्ष॒ः। त्वया॑ । सर्वे॑ । परि॑तप्ताः । पु॒रस्ता॑त् । ते । आ । य॒न्तु॒ । प्र॒ब्रु॒वा॒णाः । उप॑ । इ॒दम् ॥


स्वर रहित मन्त्र

पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान्नृचक्षः। त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम् ॥


स्वर रहित पद पाठ

पश्याम । ते । वीर्यम् । जातवेदः । प्र । नः । ब्रूहि । यातुधानान् । नृचक्षः। त्वया । सर्वे । परितप्ताः । पुरस्तात् । ते । आ । यन्तु । प्रब्रुवाणाः । उप । इदम् ॥