ऋषिः - सिन्धुद्वीपं कृतिः, अथवा अथर्वा

देवता - अपांनपात् सोम आपश्च देवताः

छन्दः - पथ्यापङ्क्तिः

स्वरः - जल चिकित्सा सूक्त

PreviousNext
स्वर सहित मन्त्र

शं न॒ आपो॑ धन्व॒न्या॑३ शमु॑ सन्त्वनू॒प्याः॑। शं नः॑ खनि॒त्रिमा॒ आपः॒ शमु॒ याः कु॒म्भ आभृ॑ताः। शि॒वा नः॑ सन्तु॒ वार्षि॑कीः ॥

स्वर सहित पद पाठ

शम् । न॒ः । आप॑ः । ध॒न्व॒न्याः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । अ॒नू॒प्याः । शम् । न॒ः । ख॒नि॒त्रिमा॑ः । आप॑ः । शम् । ऊं॒ इति॑ । याः । कुम्भे । आऽभृ॑ताः । शि॒वाः । न॒ः । स॒न्तु । वार्षि॑कीः ॥


स्वर रहित मन्त्र

शं न आपो धन्वन्या३ शमु सन्त्वनूप्याः। शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः। शिवा नः सन्तु वार्षिकीः ॥


स्वर रहित पद पाठ

शम् । नः । आपः । धन्वन्याः । शम् । ऊं इति । सन्तु । अनूप्याः । शम् । नः । खनित्रिमाः । आपः । शम् । ऊं इति । याः । कुम्भे । आऽभृताः । शिवाः । नः । सन्तु । वार्षिकीः ॥